ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । । ९ । ।
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः । । १० । ।
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः । नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः । । ११ । ।
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः । । १२ । ।
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । नमो जगत्प्रतिष्टायै देव्यै कृत्यै नमो नमः । । १३ । ।
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६||
या देवी सर्वभूतेषु चेतनेत्यभिधीयते | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९||
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२||
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५||
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८||
या देवी सर्वभूतेषुच्छायारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१||
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४||
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७||
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०||
या देवी सर्वभूतेषु जातिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३||
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६||
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९||
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२||
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५||
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८||
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१||
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४||
या देवी सर्वभूतेषु दयारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७||
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०||
या देवी सर्वभूतेषु मातृरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३||
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६||
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या | भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः || ७७||
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७८-८०||
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः । । ८१ । ।
या साम्प्रतं चोद्धतदैत्यतापितै रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्त्तिविनम्रमूर्तिभिः । । ८२ । ।