ॐ ऋषय ऊवाच :-
कथं देवेन वै सूत देवदेवान्महेश्वरात् । सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
सूत उवाच :-
देवानामसुरेन्द्राणामभवच्च सुदारुणः । सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः । प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
पराजितास्तदा देवा देवदेवेश्वरं हरिम् । प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः । प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः । समागताः ससन्तापा वक्तुमर्हथ सुव्रताः ॥ ६॥
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः । प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन । दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम । त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन । हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः । कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः । सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
अवध्या वरलाभात्ते सर्वे वारिजलोचन । सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो । दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥१४॥
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा । रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि । ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
श्रीविष्णुरुवाच :-
भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् । देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् । सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् सन्तारयाम्यहम् ।
सूत उवाच :-
एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् । लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा । त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् । तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् । पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् । प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः । स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
श्री विष्णुरुवाच :-
ॐ भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥
अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः । ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः । गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः । चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥
वेदान्तसारसन्दोहः कपाली नीललोहितः । ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः । ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥
वामदेवो महादेवः पाण्डुः परिदृढो दृढः । विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३॥
सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः । ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४॥
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी । कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५॥
उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः । दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६॥
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः । कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७॥
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी । विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८॥
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् । उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९॥
दाता दयाकरो दक्षः कपर्दी कामशासनः । श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४०॥
लोककर्ता भूतपतिर्महाकर्ता महौषधी । उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१॥
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी । सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२॥
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः । लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३॥
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४॥
त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः । ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५॥
शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः । गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः । सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७॥
कामदेवः कामपालो भस्मोद्धूलितविग्रः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८॥
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः । चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९॥
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५०॥
शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१॥
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः । महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२॥
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः । अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३॥
पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः । सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः । आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः । धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६॥
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः । अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः । तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९॥
लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः । वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६०॥
चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः । भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१॥
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः । सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२॥
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः । अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३॥
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः । अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४॥
योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः । वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५॥
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् । कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६॥
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः । अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७॥
कालयोगी महानादो महोत्साहो महाबलः । महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८॥
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९॥
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः । ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७०॥
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः । बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१॥
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः । इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२॥
अपांनिधिरधिष्ठानं विजयो जयकालवित् । प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३॥
विरोचनः सुरगणो विद्येशो विबुधाश्रयः । बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४॥
करणं कारणं कर्ता सर्वबन्धविमोचनः । विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः । दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ ७६॥
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् । वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ ७७॥
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः । वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ ७८॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः । मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९॥
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् । अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८०॥
परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः । रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१॥
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः । युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२॥
कैलासपतिकामारिः सविता रविलोचनः । विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः । दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४॥
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः । अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५॥
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः । जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६॥
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः । प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७॥
जन्माधिपो महादेवः सकलागमपारगः । तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८॥
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः । यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९॥
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः । पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९०॥
आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् । गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१॥
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा । अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२॥
स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः । पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३॥
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः । भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४॥
उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः । नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५॥
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः । हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६॥
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः । अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८॥
हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः । अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९॥
बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः । मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १००॥
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः । निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१॥
आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः । लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२॥
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः । अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः । असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४॥
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५॥
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा । निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६॥
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७॥
अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः । पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८॥
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः । तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥
अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः । शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११०॥
चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११॥
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः । बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२॥
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः । सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३॥
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः । पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४॥
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् । पद्मासनः परञ्ज्योतिः परावरफलप्रदः ॥ ११५॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः । परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः । देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८॥
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः । ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९॥
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः । शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२०॥
जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः । ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१॥
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः । लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२॥
स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः । बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३॥
दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः । श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४॥
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः । अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५॥
वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् । धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६॥
आधारः सकलाधारः पाण्डुराभो मृडो नटः । पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७॥
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः । मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८॥
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः । सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९॥
मानी मान्यो महाकालः सद्भूतिः सत्परायणः । चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३०॥
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः । अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१॥
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः । शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२॥
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः । तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३॥
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः । अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४॥
वरशीलो वरतुलो मानो मानधनो मयः । ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५॥
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६॥
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता । भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७॥
संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः । देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८॥
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः । निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ॥ १३९॥
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः । सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४०॥
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः । अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१॥
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः । सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२॥
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् । सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३॥
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः । अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४॥
अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः । वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५॥
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् । श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६॥
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः । अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७॥
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः । परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८॥
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा । स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९॥
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली । मेखली कवची खड्गी मायी संसारसारथिः ॥ १५०॥
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः । असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१॥
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः । अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२॥
सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः । कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३॥
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः । द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ १५४॥
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः । एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५॥
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः । स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६॥
निरवद्यपदोपायो विद्याराशिरविक्रमः । प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७॥
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः । परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८॥
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ।
सूत उवाच :-
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९॥
स्नापयामास च विभुः पूजयामास पङ्कजैः । परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६०॥
गोपयामासकमलं तदैकं भुवनेश्वरः । हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१॥
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् । पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२॥
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् । तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३॥
कोटिभास्करसङ्काशं जटामुकुटमण्डितम् । ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४॥
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् । वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५॥
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् । हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६॥
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् । चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७॥
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् । अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८॥
तदा प्राह महादेवः प्रहसन्निव शङ्करः । सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९॥
ज्ञातं मयेदमधुना देवकार्यं जनार्दन । सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७०॥
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् । हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१॥
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् । शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥१७२॥
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् । योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३॥
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् । किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४॥
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन । अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५॥
अकालिके त्वधर्मे च अनर्थेवारिसूदन । एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६॥
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् । तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७॥
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः । पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८॥
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् । भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९॥
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् । त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८०॥
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो । तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१॥
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः । प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२॥
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः । भविष्यति न सन्देहो मत्प्रसादात्सुरोत्तम ॥ १८३॥
यदा सती दक्षपुत्री विनिन्द्येव सुलोचना । मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४॥
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत । भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५॥
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् । मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६॥
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् । द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७॥
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः । जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८॥
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् । मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् । प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९०॥
अश्वमेधसहस्रेण फलं भवति तस्य वै । घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥१९१॥
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् । सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२॥
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै । तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३॥
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् । तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४॥
जपीन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५॥
॥ श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥