श्रीपार्वत्युवाच ।
देवदेव महादेव संसारार्णवतारकम् । गायत्रीकवचं देव कृपया कथय प्रभो ॥ १॥
श्रीमहादेव उवाच ।
मूलाधारे स्थिता नित्यं कुण्डली तत्त्वरूपिणी । सूक्ष्मातिसूक्ष्मपरमा बिसतन्तुस्वरूपिणी ॥ २॥
विद्युत्पुञ्जप्रतीकाशा कुण्डली श्रुतिसर्पिणी । परस्य ब्रह्मग्रहणी पञ्चाशद्वर्णरूपिणी ॥ ३॥
शिवस्य नर्तकी नित्या परब्रह्मप्रपूजिता । ब्राह्मणस्यैव गायत्री चिदानन्दस्वरूपिणी ॥ ४॥
ब्रह्मण्यवर्त्मवातेयं प्राणात्मा नित्यनूतनात् । नित्यं तिष्ठति सानन्दा कुण्डली तव विग्रहे ॥ ५॥
अतिगोप्यं महत्पुण्यं त्रिकोटीतीर्थसंयुतम् । सर्वज्ञानमयी देवी सर्वदानमयी सदा ॥ ६॥
सर्वसिद्धिमयी देवी पार्वती प्राणवल्लभा ।
ॐ ॐ ॐ ॐ भूः ॐ ॐ भुवः ॐ ॐ स्वः ॐ ॐ त ॐ ॐ त्स
ॐ ॐ वि ॐ ॐ तु ॐ ॐ व ॐ ॐ रे ॐ ॐ ण्यं ॐ ॐ भ
ॐ ॐ र्गो ॐ ॐ दे ॐ ॐ व ॐ ॐ स्य ॐ ॐ धी ॐ ॐ म
ॐ ॐ हि ॐ ॐ धि ॐ ॐ यो ॐ ॐ यो ॐ ॐ नः ॐ ॐ प्र
ॐ ॐ चो ॐ ॐ द ॐ ॐ यात् ॐ Oम् । ॐ भूःॐ
पातु मे मूलं चतुर्दलसमन्वितम् ।
ॐ भुवः ॐ पातु मे लिङ्गं सजलं षड्दलात्मकम् ॥ ७॥
ओं स्वः ॐ पातु मे कण्ठं सकाशां दलषोडशम् । ॐ त ॐ पातु मे रूपं ब्रह्माणं कारणं परम् ॥ ८॥
ॐ त्स ॐ पातु मे ब्रह्माणं पातु सदा मम । ॐ वि ॐ पातु मे गन्धं सदा शिशिरसंयुतम् ॥ ९॥
ॐ तु ॐ पातु मे स्पर्शं शरीरस्य च कारणम् । ॐ र्व ॐ पातु मे शब्दं शब्दविग्रहकारणम् ॥ १०॥
ॐ रे ॐ पातु मे नित्यं सदा तत्त्वशरीरकम् । ॐ ण्यं ॐ पातु मे ह्यक्षं सर्वतत्त्वैककारणम् ॥ ११॥
ओं भ ॐ पातु मे श्रोत्रं श्रवणस्य च कारणम् । ॐ र्गो ॐ पातु मे घ्राणं गन्धोपादानकारणम् ॥ १२॥
ॐ दे ॐ पातु मे वास्यं सभायां शब्दरूपिणी । ॐ व ॐ पातु मे बाहुयुगलं ब्रह्मक्रारणम् ॥ १३॥
ॐ स्य ॐ पातु मे लिङ्गं षड्दलं षड्दलैर्युरतम् । ॐ धी ॐ पातु मे नित्यं प्रकृतिं शब्दकारणम् ॥ १४॥
ॐ म ओं पातु मे नित्यं मनोब्रह्मस्वरूपिणम् । ॐ हि ॐ पातु मे बुद्धिं परब्रह्ममयं सदा ॥ १५॥
ॐ धिय ॐ पातु मे नित्यमहङ्कारं यथा तथा । ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा ।
ॐ नः ॐ पातु मे नित्यं तेजःपुञ्जो यथा तथा ॥ १६॥
ॐ प्र ॐ पातु मे नित्यमनिलं कार्यकारणम् । ॐ चो ॐ पातु मे नित्यमाकाशं शिवसन्निभम् ॥ १७॥
ॐ द ॐ पातु मे जिह्वां जपयज्ञस्य कारणम् । ॐ यात् ॐ मे नित्यं शिवज्ञानमयं सदा ॥ १८॥
तत्त्वानि पातु मे नित्यं गायत्री परदैवतम् । कृष्णा मे सततं पातु ब्रह्माणी भूर्भुवःस्वरोम् ॥ १९॥
ॐ अस्य श्रीगायत्रीकवचस्य परब्रह्म ऋषिः ऋग्यजुःसामाथर्वाणश्छन्दांसि, ब्रह्मा देवता, धर्मार्थकाममोक्षार्थं जपे विनियोगः ॥
ॐ भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
कामक्रोधादिकं सर्वं स्मरणाद्याति दूरतः । इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि ॥ २०॥
शतकोटिजपेनापि न सिद्धिर्जायते प्रिये । गायत्रीकवचात्सर्वं स्मरणात्सिध्यति ध्रुवम् ॥ २१॥
पत्वाठि कवचं विप्रो गायत्रीं सकृदुच्चरेत् । सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्विजः ॥ २२॥
इदं कवचमज्ञात्वा त्वन्यद्यः कवचं पठेत् । सर्वं तस्य वृथा देवि त्रैलोक्यमङ्गलादिकम् ॥ २३॥
गायत्री वचं यस्य जिह्वायां विद्यते सदा । तदाऽमृतमयी जिह्वा पवित्रा जपपूजने ॥ २४॥
इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि । व्यर्थं भवति चार्वङ्गि तज्जपो वनरोदनम् ॥ २५॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्यस्य स्मरणाद्यान्ति दूरतः ॥ २६॥
नश्वरं मांसमेदोऽस्थिमज्जाशुक्रविनिर्मितम् ॥ २७॥
वातपित्तकफैर्युक्तं स्थूलदेहं तदुच्यते । सूक्ष्मं ज्योतिर्मयं देहं पञ्चभूतात्मकं विदुः ॥ २८॥
महापद्मवनान्तस्थं सर्वावयवसंयुतम् । आधारदेहसम्बन्धाद्गायत्री ब्रह्मणः स्वयम् ॥ २९॥
एतदेव परं ब्रह्म कथिते उभयात्मके । ब्राह्मणस्यैव जीवात्मा गायत्रीसहितो वपुः ॥ ३०॥
आत्मनां हृदयाम्भोजे प्रदीपकलिकोपमम् । निर्धूमं च यथा ज्योतिस्तैलाग्निवर्तियोगतः ॥ ३१॥
तज्ज्योतिः परमं ब्रह्म शुभदं नात्र संशयः । गायत्रीकवचं न्यासं मातृकास्थानसन्धिषु ॥ ३२॥
स कृत्वा ब्राह्मणश्रेष्ठ चान्यन्यासं समाचरेत् । अन्यन्यासे तथा सिद्धिरन्यथायाऽरण्यरोदनम् ॥ ३३॥
गायत्रीन्यासमात्रेण परब्रह्ममयो द्विजः । इदं कवचमज्ञात्वा ब्रह्मचर्यं करोति यः ॥ ३४॥
ब्रह्मचर्यं भवेद्व्यर्थं गायत्रीकवचं विना । कवचस्य प्रसादेन ब्राह्मणो ज्वलदग्निवत् ॥ ३५॥
कवचं परमेशानि सृष्टिस्थितिलयात्मकम् । कवचं ब्राह्मण इदं प्रातरुत्थाय यः पठेत् ॥ ३६॥
गायत्रीं स सकृत्स्मृत्वा जपलक्षफलं भवेत् । गायत्रीं दशधा जप्त्वा दशलक्षफलं भवेत् ॥ ३७॥
एवं क्रमेण गायत्रीं शतधा प्रजपेद्यदि । शतलक्षफलं प्राप्य विहरेद्देववद्भुवि ॥ ३८
सूर्येन्दोर्ग्रहणे चेदं पठित्वा कवचं द्विजः । सकृद्यदि जपेद्विद्यां गायत्रीं परमाक्षराम् ॥ ३९॥
तत्क्षणात्तु भवेत्सिद्धो ब्रह्मसायुज्यमाप्नुयात् । इदं कवक्षमज्ञात्वा गायत्रीं प्रजपेत्तु यः ॥ ४०॥
जप एव वृथा तस्य निस्तेजो न च सिद्धिदः । यः पठेत्कवचं देवि सततं शिवसन्निधौ ॥ ४१॥
विष्णुदेवस्य कवचं प्रजपेच्छक्तिसन्निधौ । तेजःपुञ्चमयो विप्रस्तत्क्षणाज्जायते ध्रुवम् ॥ ४२॥
इति श्री रुद्रयामले पार्वतीश्वर संवादे गायत्री कवचं सम्पूर्णम् ॥